Monday, 23 January 2023

Sanskrit Class 10 Chapter 1 Question Answer कक्षा 10 संस्कृत पाठ 1 के प्रश्न उत्तर


 Sanskrit Class 10 Chapter 1 Question Answer

कक्षा 10 संस्कृत पाठ 1 के प्रश्न उत्तर




1. एकपदेन उत्तरं लिखत।

प्रश्न i. अत्र जीवितं कीदृशं जातम् ?
उत्तर: दुर्वहमत्र

प्रश्न ii. अनिशं महानगरमध्ये किं प्रचलति ?
उत्तर: कालायासचक्रम्

प्रश्न iii. कुत्सितवस्तुमिश्रितं किमस्ति ?
उत्तर: भक्ष्यम्

प्रश्न iv. अहं कस्मै जीवनं कामये ?
उत्तर: मानवाय

प्रश्न v. केषां माला रमणीया ?
उत्तर: ललितलतानां

2. अघोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत।

प्रश्न i. कविः किमर्थं प्रकृतेः शरणम् इच्छति ?
उत्तर: सर्वत्र प्रदूषणम् अस्ति। अतः कविः प्रकृतेः शरणम् इच्छति।

प्रश्न ii. कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते ?
उत्तर: महानगरेषु अनन्ताः यानानां पङ्क्तयः सन्ति। अतः संसरणं कठिन‍।

प्रश्न iii. अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?
उत्तर: अस्माकं पर्यावरणे जलं भोज्यं वायुश्च दूषिताः सन्ति।

प्रश्न iv. कविः कुत्र सञ्चरणं कर्तुम् इच्छति ?
उत्तर: कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।

प्रश्न v. स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम् ?
उत्तर: स्वस्थजीवनाय वनप्रदेशे भ्रमणीयम्।

प्रश्न vi. अन्तिमे पद्यांशे कवेः का कामना अस्ति ?
उत्तर: अन्तिमे पद्यांशे कवि मानवाय जीवनं कामये।

3. सन्धिं/सन्धिविच्छेदं कुरुत।

(क) प्रकृतिः + एव = प्रकृतिरेव।
(ख) स्यात् + न + एव = स्यान्नैव।
(ग) हि + अनन्ताः = ह्यनन्ताः।
(घ) बहिः + अन्तः + जगति = बहिरन्तर्जगति।
(ङ) अस्मात् + नगरात् = अस्मान्नगरात्।
(च) सम् + चरणम् = सञ्चरणम्।
(छ) धूमम् + मुञ्चति = धूमं मुञ्चति।

4. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत।

उत्तर संकेत: भृशं, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः।

(क) इदानीं वायुमण्डलं भृशं प्रदूषितमस्ति।
(ख) अत्र जीवनं दुर्वहम् अस्ति।
(ग) प्राकृतिक वातावरणे क्षणं सञ्चरणम् अपि लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् एव प्रकृतेः आराधना।
(ङ) सदा समयस्य सदुपयोगः करणीयः।
(च) भूकम्पित-समये बहिः गमनमेव उचितं भवति।
(छ) यत्र हरीतिमा तत्र शुचिपर्यावरणम्।

5 (i). अधोलिखितानां पदानां पर्यायपदं लिखत।

शब्दाः

पर्यायाः

(क) सलिलम्
(ख) आम्रम्
(ग) वनम्
(घ) शरीरम्
(ङ) कुटिलम्
(च) पाषाणः

जलम्
रसालम्
काननम्
तनुः
वक्रम्
प्रस्तरः

5 (ii). अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत।

शब्दाः

विलोम:

(क) सुकरम्
(ख) दूषितम्
(ग) गृहणन्ती
(घ) निर्मलम्
(ङ) दानवाय
(च) सान्ताः

दुर्वहम्
शुचि
वितरन्ती
मलिनम्
मानवाय
अनन्ताः

6. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत।

यथा- विग्रह पदानि समस्तपद – समासनाम

उत्तरम् –

(क) समलम् – कर्मधारयः।
(ख) हरिततरूणाम् – कर्मधारयः।
(ग) ललितलतानाम् – कर्मधारयः।
(घ) नवमालिका – कर्मधारयः।
(ङ) धृतसुखसन्देशं – कर्मधारयः।
(च) कज्जलमलिनम् – कर्मधारयः।
(छ) दुर्दान्तदर्शनैः – कर्मधारयः।

7. रेखांकित पदमाधृत्य प्रश्ननिर्माणं कुरुत।

(क) शकटीयानम् कीदृशं धूमं मुञ्चति ?
(
ख) उद्याने केषां कलरवं चेतः प्रसादयति ?
(
ग) पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति ?
(
घ) केषु / कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति ?
(
ङ) कस्याः सन्निधौ वास्तविकं सुखं विद्यते ?

 

No comments:

Post a Comment